|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.45. अध्यायः 045
अथानुगीतापर्व-2
Mahabharata - Ashvamedhika Parva - Chapter Topics
ब्रह्मणा महर्षीन्प्रति शरीरस्य कालचक्रवत्सर्वनाशकत्वोक्तिपूर्वकं गृहस्थध्रमानुष्ठानस्य श्रेयःसाधनत्वोक्तिः॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
ब्रह्मोवाच।
बुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम्।
महाभूतारविष्कम्भं निमेषपरिवेष्टनम्॥ 14-45-1(93618)
जराशोकसमाविष्टं व्याधिव्यसनसञ्चरम्।
देशकालविचारीदं श्रमव्यायामनिःस्वनम्॥ 14-45-2(93619)
अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम्।
सुखदुःखान्तसंश्लेषं क्षुत्पिपासावकीलकम्॥ 14-45-3(93620)
छायातपविलेखं च निमेषोन्मेषविह्वलम्।
शोकमोहजराकीर्णं वर्तमानमचेतनम्॥ 14-45-4(93621)
मासार्धमासगुणितं विषमं लोकसञ्चरम्।
तमोनिचयपङ्कं च रजोवेगप्रवर्तकम्॥ 14-45-5(93622)
सत्त्वालङ्कारदीप्तं च गुणसंघातमण्डलम्।
विरतिग्रहणाभीकं शोकसंहारवर्तनम्॥ 14-45-6(93623)
क्रियाकारणसंयुक्तं रागविस्तारमायतम्।
लोभेप्सापरिविक्षोभं विविक्तज्ञानसम्भवम्॥ 14-45-7(93624)
भयमोहपरीवारं भूतसंमोहकारकम्।
आनन्दप्रीतिचारं च कामक्रोधपरिग्रहम्॥ 14-45-8(93625)
महदादिविशेषान्तमव्यक्तं प्रभवाप्ययम्।
मनोजवनमश्रान्तं कालचक्रं प्रवर्तते॥ 14-45-9(93626)
एतद्द्वन्द्वसमायुक्तं कालचक्रमचेतनम्।
विसृजेत्संक्षिपेच्चापि बोधयेत्स्वापयेज्जगम्॥ 14-45-10(93627)
कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः।
यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति॥ 14-45-11(93628)
विमुक्तः सर्वसङ्क्लेशैः सर्वद्वन्द्वातिगो मुनिः।
विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम्॥ 14-45-12(93629)
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः।
चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः॥ 14-45-13(93630)
यः कश्चिदिह लोकेऽस्मिन्नाश्रमः परिकीर्तितः।
तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी॥ 14-45-14(93631)
संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतः।
जातौ गुणविशिष्टायां समावर्तेत वेदवित्॥ 14-45-15(93632)
स्वदारनिरतो नित्यं शिष्टाचारो जितेन्द्रियः।
पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेदिह॥ 14-45-16(93633)
देवतातिथिशिष्टाशी निरतो वेदकर्मसु।
इज्याप्रदानयुक्तश्च यथाशक्ति यथाविधि॥ 14-45-17(93634)
न पाणिपादचपलो न नेत्रचपलो मुनिः।
न च वागङ्गचपल इति शिष्टस्य गोचरः॥ 14-45-18(93635)
नित्यं यज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतः।
नियतो यमदानाभ्यां सदा शिष्टैश्च संविशेत्॥ 14-45-19(93636)
जितशिश्नोदरो मैत्रः शिष्टाचारसमन्वितः।
वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम्॥ 14-45-20(93637)
`त्रीणि धारयते नित्यं कमण्डलुमतन्द्रितः।
एकमाचमनार्थाय एकं वै पादधावनम्।
एकं शौचविधानार्थमित्येतत्त्रितयं तथा॥' 14-45-21(93638)
अधीत्याध्यापनं कुर्यात्तथा यजनयाजने।
दानं प्रतिग्रहं वाऽपि षङ्गुणां वृत्तिमाचरेत्॥ 14-45-22(93639)
त्रीणि कर्माणि जानीत ब्राह्मणानां तु जीविकाः।
याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः॥ 14-45-23(93640)
अथ शेषाणि चान्यानि त्रीणि कर्माणि यानि तु।
दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु॥ 14-45-24(93641)
तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित्।
दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः॥ 14-45-25(93642)
सर्वमेतद्यथाशक्ति विप्रो निर्वर्तयञ्शुचिः।
एवं युक्तो जयेत्स्वर्गं गृहस्थः संशितव्रतः॥ ॥ 14-45-26(93643)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चचत्वारिंशोऽध्यायः॥ 45 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-45-1 इन्द्रियग्रामवर्धनमिति क.ट.थ.पाठः॥ 7-45-8 अनन्तप्रतिसारं चेति ट.पाठः॥ 7-45-10 मोहयेत्सामरं जगदिति क.ट.थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|